प्रथमावृत्तिः
सूत्रम्॥
गृधिवञ्च्योः प्रलम्भने॥ १।३।६९
पदच्छेदः॥
गृधिवञ्च्योः ६।२ प्रलम्भने ७।१ णेः ५।१ ६७ आत्मनेपदम् १।१ १२
काशिका-वृत्तिः
गृधिवञ्च्योः प्रलम्भने १।३।६९
णेः इति वर्तते। अकर्त्रभिप्रायार्थो ऽयमारम्भः। गृधु अभिकाङ्क्षायाम्, वञ्चु गतौ इत्येतयोर् ण्यनतयोः प्रलम्भने वर्तमानायोरात्मनेपदं भवति। प्रलम्भनम् विसंवादनं, मिथ्याफलाऽख्यानम्। माणवकं गर्धयते। माणवकं वञ्चयते। प्रल्म्भने इति किम्? श्वानं गर्धयति। गर्धनम् अस्यौत्पादयति इत्यर्थः अहिं वञ्चयति। परिहरति इत्यर्थः।
न्यासः
गृधिवञ्च्योः प्रलम्भने। , १।३।६९
बाल-मनोरमा
गृधिञ्च्योः प्रलम्भने ५६३, १।३।६९
गृधिवञ्च्योः। प्रलम्भनं प्रतारणमिति मत्वाऽऽह- प्रतारणेऽर्थे इति। प्राग्वदिति। आत्मनेपदमित्यर्थः। धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः।